सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त।

षोडशावतार रूप दत्तं भजरे भक्त।

महिषपुरवास श्रीकालाग्नि शमनदत्तम्।

प्रोद्दुटूरु ग्रामवास योगिराजवल्लभम्।

बेंगळूरु नगरस्थित दत्तयोगिराजम्।

अनंतपुरे स्थितं ज्ञानसागरं भज दत्तम्। 1

विजयवाड विलसितं श्यामकमललोचनम्।

मचिलीपट्टण संस्थितं अत्रिवरदराजम्।

जयलक्ष्मीपुरे संस्कारहीन शिवरूपम्।

मद्रासुनगर संवासं आदि गुरुनामकम्। 2

हृषीकेश तीर्थराजं श्री दिगंबर दत्तम्।

आकिवीडुस्थं विश्वांबरावधूत दत्तम्।

नूजिवीडु पट्टणे देवदेव अवतारम्।

भाग्यनगर स्थितं दत्तावधूतं भज। 3

गंडिगुंट जनपदे दत्तदिगंबर देवम्।

कोच्चिन्नगरे स्थितं सिद्धराज नामकम्।

मायामुक्तावधूत मच्चरपाके।

लीलाविश्वंभरं सूरन्नगरे भज। 4

सच्चिदानन्द जन्मस्थले दत्तकाशीश्वरम्।

पूर्वसमुद्रतीरे दत्तरामेश्वरम्।

सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त।

षोडशावतार रूप दत्तं भजरे भक्त। 5