सिद्धि बुद्धि महायोग वरणीयो गणाधिपः।
यस्स्वयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 1
यस्य दत्तात्रेयभावो भक्तानामात्मदानतः।
सूच्यते सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 2
योगाज्ज्योति स्समुद्दीप्तं जयलक्ष्मी नृसिंहयोः।
अद्वयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 3
योगविद्या चित्रभानुं चित्रभानु शरद्भवम्।
ज्ञानदं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 4
गणेशहोमेर्कदिने नित्यं श्रीचक्रपूजने।
दीक्षितं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 5
अगस्त्यमुनि संक्रान्त नानावैद्य धुरन्धरम्।
भवघ्नं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 6
वाद्योदंच द्दिव्यनाम संकीर्तन कळानिधिम्।
नादाब्धिं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 7
दत्तपीठाधिपं धर्मरक्षणोपाय बन्धुरम्।
सत्कविं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 8
विधूतभक्त सम्मोह मवधूतं जगद्गुरुम्।
स्वाश्रयं सच्चिदानन्दं सद्गुरुं तं नमाम्यहम्।। 9
साधुत्वं भक्तिमैश्वर्यं दानं योग मरोगताम्।
सन्मतिं ज्ञान मानन्दं सद्गुरु स्तवतो लभेत्।। 10