पूर्वे पशुपतिः पातु दक्षिणे पातु शंकरः।

पश्चिमे पातु विश्वेशो नीलकण्ठ स्तथोत्तरे।। 58

ईशान्यां पातु मां शर्वो ह्याग्नेय्यां पार्वतीपतिः।

नैर्ऋत्यां पातु मे रुद्रो वायव्यां नीललोहितः।। 59

ऊर्ध्वे त्रिलोचनः पातु ह्यधरायां महेश्वरः।

एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु शंकरः।। 60